॥ आत्मानुभूतिरसायनम् ॥ श्रीरमणमहर्षेः वचनामृतानुसन्धानम्
An independent Sanskrit translation of selected portions from Talks with Sri Ramana Maharshi, this work presents the timeless teachings of the supreme Advaitic sage in simple, clear, and elegant Samskṛta. A rare and distinctive contribution, it makes the essence of Sri Ramana Maharshi’s wisdom accessible through the beauty and precision of the Sanskrit language.
आत्मानुभूतिरसायनम् नामेदं प्रकरणं वेदान्तग्रन्थमौलिरत्नमिव चाकाशीति। अत्र भगवतः रमणमहर्षेः वचनामृतात्सङ्गृहीतोपदेशः उदाहरणभूयिष्ठः सर्ववेदान्तशास्त्रप्रमाणसहितः विराजते। अस्मिन् प्रकरणे भगवत एकैकं वचनं स्वयम्प्रकाशवस्तुनः आवरणनिवर्तकं विद्योतते। ‘अह’मित्यहङ्कारावरणेनैव सद्वस्तु न प्रकाशते। यत्र नाहमुदेति तत्र सत्सदा प्रकाशते।
अत्र प्रमाणभूतो महर्षेरेव स्वीयश्लोको यथा —
हृदयकुहरमध्ये केवलं ब्रह्ममात्रं
ह्यहमहमिति साक्षादात्मरूपेण भाति।
हृदि विश मनसा स्वं चिन्वता मज्जता वा
पवनचलनरोधादात्मनिष्ठो भव त्वम्॥ इति।
ग्रन्थोऽयं प्रश्नोत्तररूपं भजते। एकैकस्य प्रश्नस्य समुचितोत्तरात् प्रश्नकर्तॄणां स्वस्वरूपं हृदि प्रकाशयति भगवान्। भगवद्वचः एकैकं मुमुक्षुजनशेवधिरेव। भगवद्वचनामृतमिदम् “आत्मानुभूतिरसायनम्” स्फुटप्रकाशोधितं स्वर्णमिव चकास्ति। एषः ग्रन्थः शास्त्राध्येतॄणां मुमुक्षूणां जिज्ञासूनाञ्च परमपुरुषार्थलाभाय भवतीति सन्देहलेशो नास्ति।
Price includes standard shipping and handling. An optional Speed Post service is available at an additional cost, based on estimated shipping and handling charges.
Currently shipping only within India.
For bulk orders, either place multiple orders or contact us at publications@voiceofrishis.org